SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ नुमत्या च निर्जरा, संविग्नाः पुनर्द्विधा-द्रव्यतो भावतश्च, द्रव्यसंविग्ना मृगाः पत्रेऽपि चलति सदोत्रस्तचेतसः, भावसंविनास्तु साधवस्तैरिहाधिकार इति गाथार्थः॥ ११९४ ॥ गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपञ्चं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोघतो दर्शनाद्युपयुक्ता एव वन्दनीया इति, अधुना तानेवाऽऽचार्यादिभेद-18 तोऽभिधित्सुराह। आयरिय उवज्झाए पव्वत्ति थेरे तहेव रायणिए । एएसिं किइकम्मं कायव्वं निजरठाए ॥११९५ ॥ व्याख्या-आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थ, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तं च–सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ ॥१॥ न तु सूत्रं, यत उक्तम्-'एक्कग्गया य झाणे वुड्डी तित्थयरअणुकिती गरुआ। आणाहिजमिइ गुरू कयरिणमुक्खा न वाएइ ॥१॥ अस्य हि सर्वैरेवोपाध्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः प्राग्निरूपितशब्दार्थः, स चेत्थम्भूतः-'सम्मत्तणाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएउवज्झाओ ॥१॥' किं निमित्तं ?-'सुत्तत्थेसु थिरत्तं रिणमुक्खो आयतीयऽपडिबंधो । पाडिच्छामोहजओ सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च । गणततिविप्रमुक्तोऽथ वाचयत्याचार्यः ॥ १॥ एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणु: । आज्ञास्थैदायमिति गुरवः कृतऋणमोक्षा न वाचयन्ति ॥१॥ सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्र वाचयति उपाध्यायः ॥१॥ सूत्रार्थयोः स्थिरत्वं ऋणमोक्ष आयत्या चाप्रतिबन्धः । प्रातीच्छकमोहजयः. (प्रतीच्छनास्मोहजयः) * • पने विचलति.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy