________________
आवश्यक- यतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः ?-'यशोघातिनः' यशोऽभि
३ वन्दनाहारिभनाशकाः, कस्य ?-प्रवचनस्य, कथं यशोघातिनः?,श्रमणगुणोपात्तं यद् यशस्तत्तद्गुणवितथासेवनतो घातयन्तीति गाथार्थः ।
ध्ययने द्रीया
योग्यायो॥ ११९१ ॥ पार्श्वस्थादिवन्दने चापायान्निगमयन्नाह
| ग्यवन्दने ॥५३९॥ किइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उवहिया हुंति ॥११९२॥
गुणदोषाः व्याख्या-'कृतिकर्म वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मबन्धाय, कथं ? यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्श्व. स्थादयस्तानि तानि 'उपबृंहितानि भवन्ति' समर्थितानि भवन्ति-अनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः
॥ ११९२ ॥ यस्मादेतेऽपायास्तस्मात् पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाह8| देसणनाणचरित्ते तवविणए निच्चकालमुजुत्ता । एए उ वंदणिज्जा जे जसकारी पवयणस्स ॥ ११९३ ॥ I | व्याख्या-दर्शनज्ञानचारित्रेषु तथा तपोविनययोः 'नित्यकालं' सर्वकालम् 'उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशाकारिणः प्रवचनस्येति गाथार्थः॥ ११९३ ॥ अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाहकिइकम्मं च पसंसा संविग्गजणंमि निजरद्वाए। जे जे विरईठाणा ते ते उवहिया हुंति ॥ ११९४ ॥
॥५३९॥ ___ व्याख्या-कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?-यानि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तद