SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ CORSOGROGLOSSAROS तितुकामस्य, तथा च-अयतितुकामो यद् यत्पश्यति लोके नित्यवासादितत् तदालम्बनं करोतीति गाथार्थः ॥११८८ किं च-द्विधा भवन्ति प्राणिनः-मन्दश्रद्धास्तीवनद्धाश्च, तत्रान्यन्मन्दश्रद्धानामालम्बनम् अन्यच्च तीव्रश्रद्धानामिति, आह च जे जत्थ जया जइया बहुस्सुया चरणकरणपन्भट्ठा । जं ते समायरंती आलंबण मंदसडाणं ॥ ११८९॥ व्याख्या-'ये' केचन साधवः 'यत्र' ग्रामनगरादौ 'यदा' यस्मिन् काले सुषमदुष्षमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ | बहुश्रुताश्चरणकरणप्रभ्रष्टाः सन्तो यत्ते समाचरन्ति पार्श्वस्थादिरूपं तदालम्बनं मन्दश्रद्धानां, भवतीति वाक्यशेषः, तथा-12 हि-आचार्यो मथुरायां मङ्गुः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः॥११८९ ॥ जे जत्थ जया जइया बहुस्सुया चरणकरणसंपन्ना । जं ते समायरंती आलंबण तिव्वसड्डाणं ॥ ११९० ॥ व्याख्या-'ये' केचन 'यत्र' ग्रामनगरादौ 'यदा' सुषमदुष्षमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षुप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः ॥ ११९० ॥ अवसितमानुषङ्गिक, तस्मात् स्थितमिदं-पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाह दसणनाणचरित्ते तवविणए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स ॥ ११९१ ॥ | व्याख्या-'दसणनाणचरित्ते'त्ति प्राकृतशैल्या छान्दसत्वाच्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः 'निच्चकालपासत्थ' त्ति सर्वकालं पार्वे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थ, तथा च-इत्वरप्रमादान्निश्च HORARISHIGA
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy