________________
आवश्यकहारिभ
द्रीया
॥ ५३८ ॥
व्याख्या - शीतलं च तत् रूक्षं च शीतलरूक्षम्, अन्नमिति गम्यते, तस्यानुचितः - अननुरूपः, नरेन्द्रप्रत्रजितत्वाद्रोगाभिभूतत्वाच्च शीतलरूक्षानुचितस्तं, 'व्रजेषु' गोकुलेषु 'विगतिगतेन' विगतिजातेन यापयन्तं सन्तं 'हट्ठावि'त्ति समर्था अपि भणन्ति शठाः - किमासीदुदायनो न मुनिः ?, मुनिरेव विगतिपरिभोगे सत्यपि, तस्मान्निर्दोष एवायमिति ॥ ११८६ ॥ एवं नित्यवासादिषु मन्दधर्माः सङ्गमस्थविरादीन्यालम्बनान्याश्रित्य सीदन्ति, अन्ये पुनः सूत्रादीन्येवाधिकृत्य,
तथा चाह
सुत्तत्थबालवृड्डे य असहुदव्वाइआवईओ या । निस्साणपयं काउं संथरमाणावि सीयंति ॥ ११८७ ॥
व्याख्या — सूत्रं च अर्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धास्तान्, तथाऽसहश्च द्रव्याद्यापदश्च असहद्रव्याद्यापद स्ताँश्च, निश्राणाम् - आलम्बनानां पदं कृत्वा 'संस्तरन्तोऽपि संयमानुपरोधेन वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्येन ?, एवमर्थं निश्रापदं कृत्वा शृणोमि तावत्, एवं बालत्वं वृद्धत्वं असहम् - असमर्थत्वमित्यर्थः, एवं द्रव्यापदं - दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं - क्षुल्लकमिदं क्षेत्रं, तथा कालापदं - दुर्भिक्षं वर्तते, तथा भावापदं - ग्लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थः ॥ ११८७॥ एवम् — आलंबणाण लोगो भरिओ जीवस्स अजउकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणइ ॥ ११८८ ॥ व्याख्या–‘आलम्बनानां' प्राग्निरूपित शब्दार्थानां 'लोकः' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'अजउ कामस्स'त्ति अय
३ वन्दनाध्ययने विकृतिद्वारं
॥५३८ ॥