________________
धम्मकहावसरे अणगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहारा पंताहारा एवमादि, वेसमणो चिंतेइ - एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो य से इमा सरीरसुकुमारता जा देवाणवि न अस्थि, ततो भगवं तस्साकूतं नाऊण पुंडरीयं नाममज्झयणं परूवेइ, जहा - पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु, तं मा तुमं बलियत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेणं दुब्बलेणं अट्टदुहट्टो कालगतो अहे सत्तमाए उववण्णो, पुंडरीओ पुण पडिपुण्णगल्लकपोलोऽवि सबट्टसिद्धे उबवण्णो, एवं देवाणुप्पिया ! दुब्बलो बलिओ वा अकारणं, एत्थ झाणनिग्गहो कायबो, झाणनिग्गहो परं पमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टो संवेगमावण्णो वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणिओ देवो जंभगो, तेण तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च पडिवण्णो, ततो भगवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणति -तुब्भे अम्हं आयरिया अम्हे तुब्भं
१ धर्मकथावसरेऽनगारगुणान् परिकथयति, यथा भगवन्तः साधवोऽन्ताहाराः प्रान्ताहारा एवमादीन् वैश्रमणश्विन्तयति - एष भगवान् ईदृशान् साधुगुणान् वर्णयति, आत्मनश्चास्येयं शरीरसुकुमारता यादृशी देवानामपि नास्ति, ततो भगवान् तस्याकूतं ज्ञात्वा पुण्डरीकं नामाध्ययनं प्ररूपयति, यथा- पुण्डरीकिणी नगरी पुण्डरीको राजा कण्डरीको युवराजः यथा ज्ञातेषु तन्मा त्वं बलित्वं दुर्बलत्वं वा ग्राहीः, यथा स कण्डरीकस्तेन दौर्बल्येन आर्त्तदुःखार्त्तः कालग तोऽधः सप्तम्यामुत्पन्नः, पुण्डरीकः पुनः प्रतिपूर्णगल्लकपोलोऽपि सर्वार्थसिद्धे उत्पन्नः, एवं देवानुप्रिय ! दुर्बलो बलिको वाऽकारणम्, अत्र ध्याननिग्रहः कर्त्तव्यः, ध्याननिग्रहः परं प्रमाणं ततो वैश्रमणोऽहो भगवता मम हृदयाकृतं ज्ञातमित्यावृत्तः संवेगमापन्नो वन्दित्वा प्रतिगतः । तत्र वैश्रमणस्य एकः सामानिको देवो जृम्भकः, तेन तत् पुण्डरीकाध्ययनमवगृहीतं पञ्चशतानि, सम्यक्त्वं च प्रतिपन्नः, ततो भगवान् द्वितीयदिवसे चैत्यानि वदित्वा प्रत्यवतरति, ते च तापसा भणन्ति - यूयमस्माकमाचार्या वयं युष्माकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org