SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२८५॥ रदो-गुरुर्ब्रयादिति गाथार्थः॥ उक्तं नयद्वारम् , अधुना समवतारद्वारमुच्यते-क्वैतेषां नयानां समवतारः?, क्व वाऽन हारिभद्रीवतार इति संशयापोहायाह यवृत्तिः विभाग:१ मूढनइयं सुयं कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो ॥ ७६२॥ * __ व्याख्या-मूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिक, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः तेऽस्मिन्विद्यन्ते 'अत इनिठना' (पा०५-२-११५) विति मूढनयिक, श्रुतं 'कालिकं तु' कालिकमिति काले-प्रथमचरमपौरुषीद्वये पठ्यत इति कालिकं, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना । आह क पुनरमीषां समवतारः?, 'अपुहुत्ते समोतारों' अपृथग्भावोऽपृथक्त्वं चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन ६ वर्त्तनमित्यर्थः, तस्मिन्नयानां विस्तरेण विरोधाविरोधसम्भवविशेषादिना समवतारः, 'नत्थि पुहुत्ते समोतारो' नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवताय॑न्त इति गाथार्थः ॥ आह-कियन्तं कालमपृथक्त्वमासीत् !, कुतो वा समारभ्य पृथक्त्वं जातमिति?, उच्यते, । जावंति अजवइरा अपहत्तं कालियाणुओगस्स । तेणारेण पुहत्तं कालियसुअ दिठिवाए य॥ ७६३॥ __ व्याख्या-यावदार्यवैराः गुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनां तीक्ष्णप्रज्ञत्वात् , ॥२८५॥ कालिकग्रहणं प्राधान्यख्यापनार्थम् , अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति। तत आरतः पृथक्त्वं कालिकश्रुते दृष्टिवादे चेति गाथार्थः ॥ अथ क एते आर्यावैरा इति?, तत्र स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह Jain Education whenonal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy