________________
अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां, शब्दादीनामेकत्वादू एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दाषट्र चत्वारि द्वे वा शते, तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशाद्, एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात् , शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात् , तयोश्च शतभेदत्वादिति गाथार्थः॥
एएहिं दिट्ठिवाए परूवणा सुत्तअत्थकहणा य । इह पुण अणभुवगमो अहिगारो तिहि उ ओसन्नं ॥ ७६० ॥ है व्याख्या-'एभिः' नैगमादिभिनयैः सप्रभेदैदृष्टिवादे प्ररूपणा, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च,
आह-वस्तूनां सूत्रार्थानतिलङ्घनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात्, तव्यतिरेकेणापि च वस्तुसम्भवात्, 'इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयैर्व्याख्या कार्येति, किन्तु , श्रोत्रपेक्ष कार्या, तत्राप्यधिकारस्त्रिभिराद्यैः 'उत्सन्नं प्रायस इति गाथार्थः॥ आह-'इह पुनरनभ्युपगम' इत्यभिधाय पुनस्त्रि
नयानुज्ञा किमर्थमिति, उच्यतेरणत्थि णएहि विणं सुत्तं अत्यो व जिणमए किंचि । आसज्ज उ सोयारं णए णयविसारओ बूया ॥ ७६१ ॥
व्याख्या-नास्ति नयैविहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च-आश्रित्य पुनः श्रोतार-विमलमति, तुशब्दः पुनःशब्दार्थे, किम् ?-नयान्नयविशा
LOCIOLOGICURROCCOLOGOGA
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org