________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥२८४॥
वत्थूओ संकमणं होइ अवत्थू णए समभिरूढे । वंजणमत्थतदुभयं एवंभूओ विसेसेइ ॥७५८ ॥ व्याख्या-वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटाख्यस्य सङ्क्रमणम्-अन्यत्र कुटाख्यादौ गमनं किम् ? भवति अवस्तु-असदित्यर्थः, नये पर्यालोच्यमाने एकस्मिन्नानार्थसमभिरोहणात्समभिरूढः तस्मिन् , इयमत्र भावना-घटः कुटः कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटनाद घटः, विशिष्टचेष्टावानों घट इति, तथा 'कुट कौटिल्ये' कुटनात्कुटः, कौटिल्ययोगात्कुटः, तथा 'उभ उम्भ पूरणे' उम्भनात् उम्भः, कुस्थितपूरणादित्यर्थः, ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र सङ्का|न्तिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः । वञ्जण' मित्यादि व्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं-शब्दः अर्थस्तु-तद्गोचरः, तच्च तदुभयं च तभयं-शब्दार्थलक्षणम् 'एवम्भूतों' यथाभूतो नयः विशेषयति, इदमत्र हृदयम्-शब्दमर्थेन विशेषयत्यर्थं च शब्देन, घट चेष्टाया' मित्यत्र चेष्टया घटशब्दं विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योषिन्मस्तकव्यवस्थितः चेष्टावानर्थो घटशब्देनोच्यते तदा स घटः, तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्ध्वनेश्चावाचकत्वमिति गाथार्थः॥ एवं तावन्नैगमादीनां मूलजातिभेदेन संक्षेपलक्षणमभिधायाधुना तत्प्रभेदसङ्ख्यां प्रदर्शयन्नाहएकको य सयविहो सत्त जयसया हवंति एमेव । अण्णोऽवि य आएसो पंचेव सया नयाणं तु ॥७५९॥ व्याख्या-अनन्तरोक्तनैगमादिनयानामेकैकश्च स्वभेदापेक्षया 'शतविधः शतभेदः सप्त नयशतानि भवन्ति एवं त.
GROCEROSCORCCCCC
॥२८४॥
Jain Education International
For Personal & Private Use Only
inlibrary.org