________________
संतेऽवि सेसए मुयइ । संववहारपरतया ववहारो लोयमिच्छंतो ॥२॥” इत्यादि, उक्तो व्यवहार इति गाथार्थः॥ पचुप्पण्णग्गाही उजुसुओ नयविही मुणेयब्बो । इच्छइ विसेसियतरं पञ्चुप्पण्णं णओ सद्दो ॥७५७ ॥ __ व्याख्या-साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न-भिन्नव्यक्तिस्वामिकमित्यर्थः, तद्ब्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही, ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः तत्र ऋजु-वर्तमानमतीतानागतवपरित्यागात् वस्त्वखिलं ऋजु तत्सूत्रयति-गमयतीति ऋजुसूत्रः, यद्वा ऋजु-वक्रविपर्ययादभिमुखं श्रुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् , अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमण्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाद् अदृश्यत्वात्, खपुष्पवत् , तथा परकीयमप्यवस्तु निष्फलत्वात् , खपुष्पवत् , तस्माद्वर्त्तमानं स्वं वस्तु, तच्च न लिङ्गादिभेदभिन्नमपि स्वरूपमुज्झति, लिङ्ग|भिन्नं तु तटः तटी तटमिति, वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा इत्युक्त ऋजुसूत्रः, 'इच्छति' प्रतिपद्यते 'विशेषिततरं' नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं-वर्तमानं नयः, कः?, 'शप आक्रोशे' शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुम्भाः न सन्त्येवेति मन्यते, तत्कार्याकरणात् , खपुष्पवत् , न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः॥
१ सतोऽपि शेषान् मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् ॥२॥
M
Jain Education
For Personal & Private Use Only
inelibrary.org