________________
RAN
A संगहियपिंडियत्थं संगहवयणं समासओ बेति । वच्चइ विणिच्छियत्थं ववहारो सव्वद्व्वेसुं ॥ ७५६ ॥
हारिभद्रीआवश्यक व्याख्या-आभिमुख्येन गृहीतः-उपात्तः सङ्ग्रहीतः पिण्डितः-एकजातिमापन्नः अर्थों-विषयो यस्य तत्सङ्ग्रहीतपि
| यवृत्तिः ण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्केपतः, ब्रुवते तीर्थकरगणधरा इति, एतदुक्तं भवति-सामान्यप्रति
विभागा१ पादनपरः खलु अयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषान् , तथा च मन्यते-विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनान्तरभूता वा?, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात् , खपुष्पवत् , अथानान्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात् , तत्स्वरूपवत्, पर्याप्त व्यासेन, उक्तः सङ्ग्रहः । 'वच्चति' इत्यादि व्रजति-गच्छति निः-18 आधिक्येन चयनं चयः अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयः-निःसामान्यभावः तदर्थं-तन्नि
मित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, व?-'सर्वद्रव्येषु सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः दखलु, अयं हि सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् , न तदतिरिक्त सामान्यं, तस्य व्यवहा-15
रापेतत्वात् , तथा च-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रं तत् , तदव्यतिरिक्तत्वात , तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः-आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सन्निबद्ध इति, तदर्थ व्रजति सर्वद्रव्येषु, आह च भाष्यकार:-“भमरादि पञ्चवण्णादि निच्छए जंमि वा जणवयस्स । अत्थे विनिच्छओ सो विनिच्छयत्थोत्ति जो गेज्झो॥१॥ बहुतरओत्ति य तं चिय गमेइ
१ भ्रमरादीन् पञ्चवर्णादीन् नेच्छति यस्मिन् वा जनपदस्य । अर्थे विनिश्चयः स विनिश्चयार्थ इति यो प्रायः ॥ १॥ बहुतर इति च तमेव गमयति
980CCCCCCCORDS
॥२८३॥
For Personal & Private Use Only
Hjainelibrary.org
Jain Educati