SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ दयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्राश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमदायार्थों निगदसिद्धः॥ अवयवार्थ तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह चणेगोहिं माणहिं मिणइत्ती णेगमस्स जेरुत्ती। सेसाणंपि णयाणं लक्खणमिणमो सुणेह वोच्छं॥७५५॥ ___ व्याख्या-न एक नैक-प्रभूतानीत्यर्थः, नैकैर्मानैः-महासत्तासामान्यविशेषज्ञानैमिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः-पदार्थपरिच्छेदाः, तत्र सर्व सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च विशेष परमाणुमिति । आह-इत्थं त_यं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात् , साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार:-"जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिण्णे । मन्नइ अच्चतमतो मिच्छद्दिट्टी कणातोब ॥१॥ दोहिवि णएहि नीतं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अन्नोन्ननिरवेक्खा ॥२॥" अथवा निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः खल्वयमवसेय इत्यलं विस्तरेण, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि शेषाणामपि नयानां-सङ्ग्रहादीनां लक्षणमिदं शृणुत 'वक्ष्ये' अभिधास्य इत्ययं गाथार्थः॥. यत् सामान्यविशेषौ परस्परं वस्तुतश्च स भिन्नौ । मन्यतेऽत्यन्तमतो मिथ्यादृष्टिः कणाद इव ॥ १॥ द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलूकेन तथापि | मिथ्यात्वम् । यत् स्वबिषयप्रधानत्वेनान्योन्यनिरपेक्षौ ॥२॥ Jain Education For Personal & Private Use Only SILnelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy