SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२८२॥ मेवार्थ चेतस्यारोप्याह-भावे य' इत्यादि, भावे च-विचार्यमाणे तथा लक्षणमिदं 'समासतः' सङ्खपतो भणितं । सामा- हारिभद्रीयिकस्य वैशेषिकलक्षणाभिधित्सयाऽऽह-'अहवावि भावलक्खण चउविधं सद्दहणमादी' अथवाऽपि भावस्य-सामायिकस्य यवृत्तिः विभाग:१ लक्षणमनुस्वारलोपोऽत्र द्रष्टव्यः, चतुर्विधं श्रद्धानादीति गाथार्थः ॥ यदुक्तं-'चतुर्विधं श्रद्धानादि' तत्प्रदर्शनायाह- 18 सद्दहण जाणणा खलु विरती मीसाय लक्खणं कहए। तेऽवि णिसामिति तहा चउलक्खणसंजुयं चेव।।७५३॥दारं | व्याख्या-इह सामायिकं चतुर्विधं भवति, तद्यथा-सम्यक्त्वसामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिकं च, अस्य यथायोगं लक्षणं 'सद्दहणं ति श्रद्धानं, लक्षणमिति योगः सम्यक्त्वसामायिकस्य, 'जाणण'त्ति ज्ञानं ज्ञा-संवित्तिरित्यर्थः, सा च श्रुतसामायिकस्य, खलुशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः, 'विरतित्ति विरमणं विरतिः-अशेषसावद्ययोगनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणं, 'मीसा य' त्ति मिश्रा-विरताविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणं, कथयतीत्यनेन स्वमनीषिकाऽपोहेन शास्त्रपारतन्त्र्यमाह, भगवान् जिन एवं कथयति, तस्य च कथयतः 'तेऽपि' गणधरादयः 'निशामयन्ति' शृण्वन्ति 'तथा' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः।। |उक्तं लक्षणद्वारम् , अधुना नयद्वारं प्रतिपिपादयिषुराह__णेगमसंगहववहारउज्जुसुए चेव होइ बोडव्वे । सद्दे य समभिरूढे एवंभूए य मूलणया ॥७५४ ॥ व्याख्या-नयन्तीति नयाः-वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहतव इत्यर्थः, ते च नैगमा-1|| ॥२८२॥ Jain Educat onal For Personal & Private Use Only No.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy