________________
केवलणाणित्ति अहं अरहा सामाइयं परिकहेई । तेसिपि पच्चओखलु सव्वण्णू तो निसामिति ॥७५०॥दारं।
व्याख्या-केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिक परिकथयति, 'तेषामपि' श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या 'प्रत्ययः' अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कश्चिदुक्तं-'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तत्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ? ॥१॥' इत्यादि, तट्यु-II दस्तं वेदितव्यम् , अन्यथा चतुर्वेदे पुरुषे लोकस्य तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचनसिद्ध्यादिषु, अतः सञ्जातप्रत्यया 'निशामयन्ति' शृण्वन्तीति गाथार्थः॥ गतं प्रत्ययद्वारम् , इदानी लक्षणद्वारावयवार्थप्रतिपादनायाहनाम ठवणा दविए सरिसे सामण्णलक्खणागारे । गइरागइ णाणत्ती निमित्त उपाय विगमे य ॥७५१ ।। | व्याख्या-लक्ष्यतेऽनेनेति लक्षणं-पदार्थस्वरूपं, तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यादि धर्मास्तिकायादीनाम्, इदमेव किञ्चिन्मात्रविशेषात्सादृश्यसामान्यादिलक्षणभेदतो निरूप्यते-तत्र 'सरिसे' त्ति सादृश्यं लक्षणम्, इहत्यघटसदृशः पाटलिपुत्रको घट इति, 'सामन्नलक्खणं' ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां सदूद्रव्यजीवमुक्तादिधमैः सामान्यमिति, 'आगारे' त्ति आक्रियतेऽनेनाभिप्रेतं ज्ञायत इत्याकारो-बाह्यचेष्टारूपः, स एवान्तराकूतगमकरूपत्वाल्लक्षणमिति, उक्तं च-"आकारैरिङ्गितर्गत्या, चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं
१ जीवपुद्गलगतं गत्यादि, तस्य धर्मास्तिकायादिकार्यत्वात् तलक्षणता.
ABSE
an duen
For Personal & Private Use Only
A
nelibrary.org