SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२८०॥ भवति, 'अनाबाधनिमित्तम्' 'अनाबाधकार्य, निमित्तशब्दः कार्यवाचकः, तथा च वक्तारो भवन्ति-अनेन निमित्तेन-अनेन कारणेन मयेदं प्रारब्धम्, अनेन कार्येणेत्यर्थः, ततश्च भवत्यनाबाधकार्यम्, 'अवेदनः ' वेदनारहितो, जीव इति गम्यते, स चावेदनत्वाद् 'अनाकुलः' अविह्वल इत्यर्थः, अनाकुलत्वाच्च नीरुग्भवतीति गाथार्थः ॥ नीरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ॥ ७४८ ॥ दारं ॥ व्याख्या - स हि जीवः नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतः किम् ?, अव्याबाधं सुखं लभत इति गाथार्थः ॥ इत्थं पारम्पर्येणाव्याबाधसुखार्थं सामायिकश्रवणमिति । गतं कारणद्वारं, प्रत्ययद्वार| मधुना व्याख्यायत इति, आह च- पच्चयणिक्खेवो खलु दव्वंमी तत्तमासगाइओ । भावंमि ओहिमाई तिविहो पगयं तु भावेणं ॥ ७४९ ॥ व्याख्या - प्रत्याययतीति प्रत्ययः प्रत्ययनं वा प्रत्ययः, तन्निक्षेपः- तन्न्यासः, खलुशब्दोऽनन्तरोक्तकारणनिक्षेप साम्यप्रदर्शनार्थः, ततश्च नामादिश्चतुर्विधः प्रत्ययनिक्षेपो, नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयस्तप्तमाषकादिः, आदिशब्दाद्धटदिव्यादिपरिग्रहः, द्रव्यं च तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययः - तप्तमाषकादिरेव, तज्जो वा प्रत्याय्यपुरुषप्रत्यय इति, 'भावम्मि' त्ति भावे विचार्यमाणेऽवध्यादिस्त्रिविधो भावप्रत्ययः, तस्य बाह्यलिङ्गकारणानपेक्षत्वाद्, आदि| शब्दान्मनःपर्याय केवलपरिग्रहः, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, बहु चात्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयादिति, 'प्रकृतम्' उपयोगस्तु सामायिकमङ्गीकृत्य 'भावेणं' ति भावप्रत्ययेनेति गाथार्थः । अत एवाह - Jain Educationtional For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥२८०॥ www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy