________________
भगवद्वदन निर्गतं सामायिकशब्दं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावना, तत्तु ज्ञानं 'सुन्दरमङ्गुलभावानां' शुभेतरपदार्थानां 'उवलद्धी' त्ति उपलब्धये - उपलब्धिनिमित्तमिति गाथार्थः ॥ सा च सुन्दरमङ्गुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम्, आह च
होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरीरया चैव ॥ ७४६ ॥ ६ व्याख्या - शुभेतरभाव परिज्ञानाद्भवतः 'प्रवृत्तिनिवृत्ती' शुभेषु प्रवृत्तिर्भवतीतरेभ्यो निवृत्तिरिति, ते च प्रवृत्तिनिवृत्ती 'संयमतव' इति संयमतपसोः कारणं तत्र निवृत्तिकारणत्वेऽपि संयमस्य प्रागुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थ, तत्पूर्वकं च वस्तुतः सफलं तपः कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्य्येत्यमुनाऽंशेन प्राधान्यख्यापनार्थमेवेत्यलं प्रसङ्गेन तयोश्च संयमतपसोः 'पावकम्म अग्गहणं' ति पापकर्माग्रहणं कर्मविवेकश्च तथा 'कारणं' निमित्तं प्रयोजनं यथासङ्ख्यम्, उक्तं च परममुनिभिः - 'संयमे अणण्यफले, तवे वोदाणफले' इत्यादि, अणण्हयः - अनाश्रवः वोदाणं कर्मनिर्जरा, कर्मविवेकस्य च प्रयोजनम् 'असरीरया चेवे'ति अशरीरतैव, चः पूरणार्थः, इति गाथार्थः ॥ साम्प्रतं विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह -
कम्मविवेगो असरीरयाय असरीरया अणाबाहा । होअणबाहनिमित्तं अवेयणमणाउलो निरुओ ॥ ७४७ ॥ व्याख्या- 'कर्मविवेकः' कर्मपृथग्भावः अशरीरतायाः कारणम्, अशरीरता 'अणाबाहाए' त्ति अनाबाधायाः कारणं
१ संयमोऽनाथवफलः तपो व्यवदानफलं
Jain Education International
For Personal & Private Use Only
ainelibrary.org