________________
आवश्यक
हारिभद्रीयवृत्तिः विभाग:१
॥२७९॥
भावरूपं चेदं, कारणं च मोक्षस्य इति अधिकारभावनेति गाथार्थः ॥ इत्थं कारणद्वारे अधिकार प्रदर्य पुनः कारण- द्वारसङ्गतमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराह
तित्थयरो किं कारण भासइ सामाइयं तु अज्झयणं । तित्थयरणामगोत्तं कम्मं मे वेइयव्वंति ॥७४२॥ ___ व्याख्या-तीर्थकरणशीलस्तीर्थकरः, तीर्थ पूर्वोक्तं, स 'किंकारणं' किंनिमित्तं भाषते सामायिकं त्वध्ययनं?, तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयम् , अत्रोच्यते-'तीर्थकरनामगोत्रं' तीर्थकरनामसझं, गोत्रशब्दः सञ्ज्ञायां, कर्म मया वेदितव्यमित्यनेन कारणेन भाषत इति गाथार्थः॥ तं च कहं वेइजइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसकइत्ता णं ॥ ७४३ ॥ व्याख्या-पूर्ववत् ॥ णियमा मणुयगतीए इत्थी पुरिसेयरोव्व सुहलेसो । आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥ ७४४ ॥
व्याख्या-पूर्ववदेव । इत्थं तीर्थकृतः सामायिकभाषणे कारणमभिधायाधुना गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणं प्रतिपादयन्नाहगोयममाई सामाइयं तु किंकारणं निसामिन्ति? । णाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ ७४५ ॥ _व्याख्या-गौतमादयो गणधराः 'किंकारणं तु' किंनिमित्तं, किंप्रयोजनमित्यर्थः, सामायिकं 'निशामयन्ति' शृण्वन्ति, अत्रोच्यते-नाणस्स' त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय-ज्ञानार्थ, तादर्थ्य चतुर्थी, तेषां हि
॥२७९॥
dal Educati
o
nal
For Personal & Private Use Only
M.jainelibrary.org