SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ८ आवश्यक ॥२७६॥ विरोधः। अथवा प्रमाणकालोऽपि भावकाल एव, तस्याद्धाकालस्वरूपत्वादित्यलं विस्तरेणेति । 'उद्देसे निदेसे ये' त्याद्युपो- हारिभद्रीद्घातनियुक्तिप्रतिबद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारमिति । साम्प्रतं यत्र क्षेत्रे भाषितं सामायिकं तदजानन् प्रमाण-18 यवृत्तिः कालस्य चानेकरूपत्वाद्विशेषमजानन् गाथापश्चार्द्धमाह चोदक:-'खेत्तमि कमि काले विभासियं जिणवरिंदेणं' ? इति विभागः१ गाथार्थः ॥ चोदकप्रश्नोत्तरप्रतिपिपादयिषयाऽऽह वइसाहसुद्धएक्कारसीऍ पुव्वण्हदेसकालंमि । महसेणवणुजाणे अणंतरं परंपरं सेसं ॥७३४॥ व्याख्या-वैशाखशुद्धैकादश्यां 'पूर्वाह्नदेशकाले' प्रथमपौरुष्यामिति भावार्थः। कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नव्यत्ययेन निर्देशः। महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य, 'परम्परं सेसं' ति शेष क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति, आह च भाष्यकार:-"खेत्तं महसेणवणोवलक्खियं जत्थ निग्गयं पुदि । सामाइयमन्नेसु य परंपरविणिगमो तस्स ॥१॥” इति गाथार्थः॥ गतं मूलद्वारगाथाद्वयप्रतिबद्धं क्षेत्रद्वारम् , इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गता व्याख्यातैव, ततश्च निर्गमद्वारव्याचिख्यासयाऽऽह-'नाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सा निक्खेवो छविहो होई' त्ति येयं गाथोपन्यस्ता अस्या एव भावनिर्गमप्रतिपादनायाह नियुक्तिकारःखइयंमि वद्यमाणस्स निग्गयं भयवओ जिणिंदस्स । भावे खओवसमियंमि वमाणेहिं तं गहियं ॥ ७३५ ॥ ॥२७६॥ व्याख्या-क्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्दः उभयथाऽप्यभिसम्बध्यते, भावे क्षायोप१ क्षेत्रं महासेनवनोपलक्षितं यन्त्र निर्गतं पूर्वम् । सामायिकमन्येषु च परम्परविनिर्गमस्तस्य ॥ १॥ For Personal & Private Use Only D Jain Education International ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy