________________
Jain Education
|मिको भावः सादिसपर्यवसान इति । उक्त औपशमिकः, क्षायिकचतुर्भङ्गिकायां तु ज्यादयः शून्या एव, क्षायिकं चारित्रं | दानादिलब्धिपञ्चकं च क्षायिको भावः सादिसपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पातीतत्वात्, क्षायिकज्ञानदर्शने तु सादिरपर्यवसाने इति, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति । उक्तः क्षायिकः, क्षायोपशमिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः - चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसाने, एते एवाभव्यानां चरमभङ्ग इति । उक्तः क्षायोपशमिकः, पारिणामिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं गोचरः- पुद्गलकाये द्व्यणुकादिः पारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनः चरमभङ्ग इति उक्तः पारिणामिकः । उक्तार्थसङ्ग्रहगाथा - बीयं दुतियांदीया भंगा वज्जेत्तु बिइययं से से । भवमिच्छसम्मचरणे दिट्ठीनाणेतराणुभवजिए ॥ १ ॥ इति गाथार्थ:
एत्थं पुण अहिगारो पमाणकालेण होइ नायव्वो । खेत्तंमि कमि काले विभासियं जिणवरिंदेणं १ ॥ ७३३ ॥
व्याख्या- 'अत्र पुनः' अनेकविध कालप्ररूपणायाम् 'अधिकारः' प्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः । आह- 'दवे अद्ध' इत्यादिद्वारगाथायां 'पगयं तु भावेणंती' त्युक्तं, साम्प्रतमत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युच्यमानं कथं न विरुद्ध्यत इति ?, उच्यते, क्षायिकभावकाले भगवता प्रमाणकाले च पूर्वाह्ने सामायिकं भाषितमित्य
१ ( औदयिकाद्यनुक्रमेण ) द्वितीयं द्वितीयादीन् तृतीयादीन् भङ्गान् वर्जयित्वा शेषयोरपि द्वितीयं वर्जयित्वा ( ३-१-२-३ - ३ भङ्गाः ) भवे मिध्यात्वे (भव्येऽभव्ये च ) ( औ०) सम्यक्त्वे (क्षा.) चरणे (व्रतरूपे ) ( क्षायो) दर्शनज्ञानयोः मत्यादौ अज्ञाने ( भव्ये अभव्ये च) (पा.) अणौ भव्यत्वे जीवत्वे ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org