________________
व्याख्या - निर्द्धमकं च ग्रामं महिलास्तूपं च कूपतटमित्यर्थः, शून्यं दृष्ट्वा, तथा नीचं च काका: 'ओलिन्ति' त्ति गृहाणि प्रति परिभ्रमन्ति, तांश्च दृष्ट्वा विद्यात् यथा जाता भैक्षस्य 'हरहरे' त्यतीव भिक्षाप्रस्ताव इति, पाठान्तरं वा 'नीयं च काए ओलिन्ते' दृष्ट्वेत्यनुवर्त्तत इति गाथार्थः । अप्रशस्त देशकालस्वरूपाभिधित्सयाऽऽहनिम्माच्छियं महुं पायडो णिही खज्जगावणो सुण्णो । जा यंगणे पत्ता पउत्थवइया य मत्ताय ॥ ७२८ ॥ दारं ॥ व्याख्या - निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकापणः शून्यः, कुल्लूरिकापण इति भावार्थ:, अतो मध्वादीनां ग्रहणप्रस्तावः, तथा या चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च तस्या अपि ग्रहणं प्रति प्रस्ताव एवेति, आसवेन मदनाकुलीकृतत्वात्तस्या इति गाथार्थः । दारं । इदानीं कालकालः प्रतिपाद्यते - कालस्य - सत्त्वस्य श्वादेः कालो - मरणं कालकालः, अमुमेवार्थं प्रतिपादयन्नाह—
काले कओ कालो अम्हं सज्झायदेसकालंमि । तो तेण हओ कालो अकालकालं करेंतेणं ॥ ७२९ ॥
व्याख्या - 'कालेनं ' शुना 'कृतः कालः' कृतं मरणम् अस्माकं स्वाध्यायदेशकाले ततोऽनेन हतः कालः - भग्नः स्वाध्यायकालः, 'अकाले' अप्रस्तावे 'काल' मरणं कुर्वतेति गाथार्थः । द्वारम् । इदानीं प्रमाणकालः प्रतिपाद्यतेतत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वर्त्ती विशिष्टव्यवहारहेतुः अहर्निशरूपः प्रमाणकाल इति, आह च| दुविहो पमाणकालो दिवसपमाणं च होइ राई अ । चउपोरिसिओ दिवसो राती चउपोरिसी चेव ॥ ७३० ॥ व्याख्या - द्विविधः प्रमाणकालः - दिवसप्रमाणं च भवति रात्रिश्च चतुष्पौरुषिकौ दिवसः रात्रिश्चतुष्पौरुष्येव, ततश्च
Jain Educationonal
For Personal & Private Use Only
www.jainelibrary.org