________________
आवश्यकहारिभद्रीया
67-%CCC
सूत्रस्पशे० करणस्व० वि०१
॥४७४॥
'भावसामाई भावसामादावेतान्युदाहरणानीति गाथार्थः ॥ १०३२ ॥ सामायिकशब्दयोजना चैवं द्रष्टव्या-इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् [ यद् यल्लक्षणेनानुपपन्नं तत् सर्व निपातनात् सिद्धमिति ] सानो नकारस्याऽऽय आदेशः, ततश्च सामायिकम् , एवं समशब्दस्याऽऽयादेशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ॥ साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाहसमया सम्मत्त पसत्थ संति सुविहिअ सुहं अनिंदं च । अदुगुंछिअमगरिहि अणवजमिमेऽवि एगट्ठा॥१०३३
व्याख्या-निगदसिद्धैव । आह-अस्य निरुक्तावेव 'सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यान्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमथाभेदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहाथै तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोक्तम्-'इमेऽवि एगह'त्ति एतेऽपि तेऽपीत्यदोषः ॥ साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाह ग्रन्थकारःको कार ओ?, करतो किं कम्म?, जं तु कीरई तेण । किं कारयकरणाण य अन्नमणन्नं च? अक्खेवो ॥१०३४॥
व्याख्या-इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह-'करेंतो'त्ति तत् कुर्वन्नात्मैव, अथ किं कर्म घटादिसंस्थानीयम् ? इत्यत्राऽऽह-यत्तु 'क्रियते' निर्वय॑ते 'तेन' का तच्च तद्गुणरूपं सामा.
C
॥४७४॥
CCCCCCAUG
Jain Education International
For Personal &Private Use Only
ainelibrary.org