________________
SUSCISSORSSTRA
यिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम् , एवं हूँ व्यवस्थिते सत्याह-'किं कारगकरणाण यत्ति किं कारककरणयोः ?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादी-12 नामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति', उभयथाऽपि दोषः, कथम् ?, अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः, तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत् , तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः॥ १०३४ ॥ विजम्भितं चात्र भाष्यकारेण-"अन्नत्ते समभावाभावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो.य ॥१॥ अह व मई-भिन्नेणवि धणेण सधणोत्ति होइ ववएसो। सधणों य धणाभागी जह तह सामाइयस्सामी ॥२॥ तं ण जओ जीवगुणो सामइयं तेण विफलता तस्स । अन्नत्तणओ जुत्ता परसामइयस्स वाइफलता ॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति । अण्णाणिच्चिय णिचं अंधो व समं पईवेणं ॥४॥ एगत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदेकयाकप्पणा वावि ॥५॥" इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाह
SORRORSCOORDA"
अन्यत्वे समभावाभावात् तत्प्रयोजनाभावः । प्राप्नोति मिथ्यादृष्टेरिव तस्य सम्यक्त्वमिथ्यात्वाविशेषश्च ॥ १॥ अथ च मतिः-भिन्नेनापि धनेन सधन इति भवति व्यपदेशः । सधनश्च धनाभागी यथा तथा सामायिकस्वामी ॥२॥ तन्न यतो जीवगुणः सामायिकं तेन विफलता तस्य । अन्यत्वात् युक्ता परसामायिकस्य वाऽ (स्येवा) फलता ॥३॥ यदि भिन्नं तद्भावेऽपि न सकः (सामायिकयुक्तः) तत्स्वभावरहित इति । अज्ञान्येव निवं अन्धो यथा समं प्रदीपेन ॥४॥ एकरवे तमाशे नाशो जीवस्य संभवे भवनम् । कारकसंकरदोषस्तदेकताकल्पना वापि ॥५॥
Jain Education
a
l
For Personal & Private Use Only
Gillinelibrary.org