________________
व्याख्या-इह सामं समं च सम्यक् ' इगमवि' देशीर्पदं क्वापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽहसामायिकस्यैकार्थिकानि । अमीषां निक्षेपमुपदर्शयन्नाह-नामस्थापनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, 'तेषां' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चाय-नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यकूपदयोरपि द्रष्टव्यः ॥ तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह| 'महुरे'त्यादि, इहौघतो मधुरपरिणाम द्रव्यं-शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्थालोचनायां समं तुलाद्रव्यं, सम्यकू क्षीरखण्डयुक्तिः क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया 'हारस्य' मुक्ताकलापस्य चयनं चितिः-प्रवेशनं द्रव्येकम्, अत एवाह-'एयाई तु दबंमि'त्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः ॥१०३१॥ साम्प्रतं भावसामादि प्रतिपादयन्नाहआओवमाइ परदुक्खमकरणं १ रागदोसमज्झत्थं । नाणाइतिगं ३ तस्साइ पोअणं ४ भावसामाई ॥१०
व्याख्या-आत्मोपमया-आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवतिआत्मनीव परदुःखाकरणपरिणामो भावसाम, तथा 'रागद्वेषमाध्यस्थ्यम्' अनासेवनया रागद्वेषमध्यवर्तित्वं समं, सर्वत्राऽsत्मनस्तुल्यरूपेण वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि-ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्षप्रसाधकत्वादिति भावना, तस्य' इति सामादिसम्बध्यते, आत्मनिप्रोतनम्' आत्मनि प्रवेशनम् इकमुच्यते, अत एवाऽऽहां
+ देशीपदे परदुःखाकरणं प० । इत्यत एवाह-'भावसामाई' भावसामादीनि प्रतिपत्तव्यानीति प्र.
dain Education International
For Personal & Private Use Only
www.janelibrary.org