________________
आवश्यक- हारिभ
| सूत्रस्पर्श
द्रीया
॥४७२॥
कथं लभ्यत इति तत्रोक्तम् , इह किमर्थ प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तं, कुतः ?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यत इत्युक्तम् , उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशे
करणस्व०
वि०१ पित तरः प्रश्नः-केषां पुनः कर्मणां स क्षयोपक्षम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन । द्वारमेवोपसंहरन्नाह-एतदेव-अनन्तरोदितं सामायिककरणं यत्तद्भावकरणं 'करणेय'त्ति उपन्यस्त द्वारपरामर्शः । 'भए यत्ति भयमपि 'यद् भणितं' यदुक्तमिति गाथाद्वयार्थः ॥ १०२८-२९ ॥ मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम्, एतद्व्याख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽहहोइ भयंतो भयअंतगो अ रयणा भयस्स छन्भेआ । सव्वंमि वन्निएऽणुक्कमेण अंतेवि छन्भेआ॥१८४॥ (भा०) | व्याख्या-भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'जविशिभ्यां झचू' ( उ. पा. ४१३ ) औणादिकप्रत्ययो दृष्टः, तं दृष्ट्वा प्रकृतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यौणादिकविधानात् , ततश्च भदन्त इति भवति, भदन्तः-कल्याणः सुखश्चेत्यर्थः, प्राकृतशैल्या वा भवति भवान्त इति, अत्र भवस्य-संसारस्यान्तस्तेनाऽऽचा|र्येण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा-भयान्तश्चेत्यत्र भयं-त्रासः तमाचार्य प्राप्य भयस्यान्तो भव-18
॥४७२॥ तीति भयान्तो-गुरुः, भयस्य वाऽन्तको भयान्तक इति, तस्याऽऽमन्त्रणं,'रचना' नामादिविन्यासलक्षणा, भयस्य 'षड्भेदाः' पटूप्रकाराः-नामस्थापनाद्रव्यक्षेत्रकालभावभेद भिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयं सप्तधा-इहलोकभयं । परलोकभयमादानभयमकस्माद्भयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते
dain Education International
For Personal & Private Use Only
www.jainelibrary.org