________________
Jain Education
उद्दिसिज्जतमाई' शिष्ये - शिष्यविषयम् उद्दिश्यमानादि - उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणम् अनुज्ञायमानकरणं च, 'एयं तु जं कइह'त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः ॥ १८३ ॥ आह - पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्नः, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम्, इह पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषितमिति न पुनरुक्तम्, अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेकान्तद्योतनार्थं विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं ६ । कथमिति द्वारमिदानीं तत्रेयं गाथा
कह सामाइअलंभो ? तस्सव्वविधाइदेस वाघाई । देसविघाईफड्डग अणंतवुडीविसुद्धस्स ॥ १०२८ ॥
एवं ककारलंभो सेसाणवि एवमेव कमलंभो ( दा० ) । एअं तु भावकरणं करणे अ भए अ जं भणिअं ॥ १०२९ ॥ अस्या व्याख्या- 'कथं' केन प्रकारेण सामायिकलाभ इति प्रश्नः अस्योत्तरं तस्य - सामायिकस्य सर्वविधा - | तीनि देशविघातीनि च स्पर्द्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं [मिथ्यात्व ] मोहनीयं च, अमीषां द्विविधानि स्पर्द्धकानि - देशघातीनि सर्वघातीनि च तत्र सर्वघातिषु सर्वेषूद्घातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषू| दूघातितेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्ध्यमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह - देशघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः ॥ किं ? - 'एव 'मित्यादि, - पूर्वार्द्ध गतार्थम्, आह - उपक्रमद्वारेऽभिहितमेतत्-क्षयोपशमात् जायते, पुनश्चोपोद्घातेऽभिहितमेतत्
For Personal & Private Use Only
www.jainelibrary.org