________________
आवश्यकहारिभद्रीया
॥४६४॥
Jain Educati
व्याख्या—इह बद्धमबद्धं तु श्रुतं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? - लौकिकलोकोत्तर भेदमिदमेवमिति, तत्र पद्य - गद्यबन्धनाद् बद्धं शास्त्रोपदेशवत्, अत एवाह-बद्धं तु द्वादशाङ्गम् - आचारादि गणिपिटकं निर्दिष्टं, तुशब्दस्य विशेषणार्थत्वालोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धम् लौकिक लोकोत्तर भेदमेवावसेयमिति, 'निसीहमनिसीह बद्धं तु'त्ति इह वद्धश्रुतं निषीथमनिषीथं च, तुशब्दः पूर्ववत्, तत्र रहस्ये पाठाद् रहस्योपदेशाच्च प्रच्छन्नं निषीथमुच्यते, प्रकाशपाठात् प्रकाशोपदेशत्वाच्चानिषीथमिति गाथार्थः ॥ १०२ ॥ साम्प्रतमनिषीथनिषीथयोरेव स्वरूपप्रतिपादनायाह
भूआपरिणयविगए सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ॥ १०२१ ॥ व्याख्या - भूतम् - उत्पन्नम् अपरिणतं नित्यं विगतं विनष्टं ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति - 'उप्पण्णे इ वा विगए इ वा धुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तम्- 'उत्ती तु सद्दकरणे' इत्यादि, तदेवं भूतादिशब्दकरणं 'न निषीथ' मिति निषीर्थं न भवति, प्रकाशपाठात् प्रकाशोपदेशत्वाच्च, प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम यथाऽध्ययनमिति गाथार्थः ॥ १०२१ ॥ अथवा निषीथं गुप्तार्थमुच्यते, “जैहा-अग्गाणीए विरिए अस्थिनत्थिष्पवायपुत्रे य पाठो - जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं भुंजइ तत्थ
१ उक्तिस्तु शब्दकरणे २ यथाऽप्रायणीये वीर्ये अस्तिनास्तिप्रवादपूर्वे च पाठः यत्रैको द्वीपायनो भुङ्क्ते तत्र द्वीपायनशतं भुङ्क्ते, यत्र द्वीपायनशतं भुङ्क्ते तत्रैको
national
For Personal & Private Use Only
सूत्रस्पर्श० वि० १
करणस्व०
॥४६४॥
jainelibrary.org