SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ बहलस्स चउत्थीए दिवा य तह सत्तमीइ रातिमि । एक्कारसीय उ दिवा बवकरणं होइ नायब ॥३॥ इत्यलं प्रसङ्कनेति गाथार्थः॥१०१८ ॥ उक्तं कालकरणम् , अधुना भावकरणमभिधीयते, तत्र भावः पर्याय उच्यते, तस्य च जीवाजीवोपाधिभेदेन द्विभेदत्वात् तत्करणमप्योघतो द्विविधमेवेति, अत आहजीवमजीवे भावे अजीवकरणं तु तत्थ वन्नाई । जीवकरणं तु दुविहं सुअकरणं नो असुअकरणं ॥१०१९॥ __व्याख्या-इहानुस्वारस्यालाक्षणिकत्वाजीवाजीवयोः सम्बन्धि 'भाव' इति भावविषयं करणमवसेयमिति, अल्पवक्त-| व्यत्वादजीवभावकरणमेवादावुपदर्शयति-'अजीवकरणं तु' तुशब्दस्य विशेषणार्थत्वादजीवभावकरणं परिगृह्यते. 'तत्र' तयोर्मध्ये वर्णादि, इह परप्रयोगमन्तरेणाभ्रादे नावोन्तरगमनं तदजीवभावकरणम् , आदिशब्दाद् गन्धादिपरिग्रहः, तत्राऽऽह-ननु च द्रव्यकरणमपि विश्रसाविषयमित्थंप्रकारमेवोक्तं, को न्वत्र भावकरणे विशेष इति !, उच्यते, इह भावाधिकारात् पर्यायप्राधान्यमाश्रीयते तत्र तु द्रव्यप्राधान्यमिति विशेषः, जीवकरणं तु पुनः द्विविध' द्विप्रकारं-श्रुतकरणं नोश्रु-I तकरणं च, श्रुतकरणमिति श्रुतस्य जीवभावत्वाच्छ्रुतभावकरणं, नोश्रुतभावकरणं च गुणकरणादि, चशब्दस्य | व्यवहितः सम्बन्ध इति गाथार्थः॥ १०१९ ॥ साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः। प्रतिपिपादयिषुराहबद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निद्दिष्टं । तव्विवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ १०२० ॥ १ कृष्णस्य चतुर्थ्या दिवसे च तथा सप्तम्यां रात्रौ । एकादश्यास्तु दिवसे बबकरणं भवति ज्ञातव्यम् ॥३॥ Jan Education International For Personal & Private Use Only Sinelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy