________________
एवं सामायारी कहिया दसहा समासओ एसा । संजमतवड्याणं निग्गंथाणं महरिसीणं ॥ ७२२ ॥ निगदसिद्धा । सामाचा-सेवकानां फलप्रदर्शनायाह
एयं सामायारिं जुजंता चरणकरणमाउत्ता । साहू खवंति कम्म अणेगभवसंचियमणंतं ॥७२३ ॥ निगदसिद्धा एव । इदानी पदविभागसामाचार्योः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, | इत्युक्तः सामाचार्युपक्रमकालः, साम्प्रतं यथाऽऽयुष्कोपक्रमकालः प्रतिपाद्यते स च सप्तधा, तद्यथा
अज्झवसाणनिमित्ते आहारे वेयणा पराघाए । फासे आणापाणु सत्तविहं झिज्जए आउं ॥७२४॥ व्याख्या-अध्यवसानमेव निमित्तम् अध्यवसाननिमित्तं तस्मिन्नध्यवसाननिमित्ते सति, अथवा अध्यवसानं रागस्नेहभयभेदेन त्रिधा तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सति, वेदनायां नयनादिसम्बन्धिन्यां सत्यां, पराघातो गर्त्तापातादिसमुत्थस्तस्मिन् सति, स्पर्श भुजङ्गादिसम्बन्धिनि, प्राणापानयोनिरोधे, किम् !, सर्वत्रैव क्रियामाह-'सप्तविध' सप्तप्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः॥ अवयवार्थस्तूदाहरणभ्योऽवसेयः, तानि चामूनि-रागाध्यवसाने सति भिद्यते आयुर्यथाएगेस्स गावीओ हरियाओ, ताहे कुढिया पच्छओ लग्गा, तेहिं नियत्तियाओ, तत्थेगो तरुणो अतिसयदिवरूवधारी
. एकस्य गावो हृताः, तदा प्रामाधिपाः (आरक्षकाः) पश्चालनाः, तैर्निर्वर्तिताः, तत्रैकः तरुणोऽतिशयदिव्यरूपधारी
Jain Educatio
For Personal & Private Use Only
nelibrary.org