________________
हारिभद्रीयवृत्तिः विभागात
आवश्यक
उपसंपन्नो जं कारणं तु तं कारणं अपूरेतो । अहवा समाणियंमी सारणया वा विसग्गो वा ॥७२० ॥ दारं ॥
5] व्याख्या-उपसम्पन्नो 'यत्कारणं' यन्निमित्तं, तुशब्दादन्यच्च सामाचार्य्यन्तर्गतं किमपि गृह्यते, 'तत्कारणं' वैयावृ॥२७१॥
इत्यादि 'अपूरयन्' अकुर्वन् , यदा वर्तत इत्यध्याहारः, किम् -तदा 'सारणया वा विसग्गो वा' तदा तस्य 'सारणा' चोदना
वा क्रियते, अविनीतस्य पुनः विसों वा-परित्यागो वा क्रियत इति, तथा नापूरयन्नेव यदा वर्तते तदैव सारणा वा विसर्गों वा क्रियते, किं तु? 'अहवा समाणियंमित्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-समाप्तं, तद्विसर्गों वेति गाथार्थः॥ उक्ता संयतोपसम्पत्, साम्प्रतं गृहस्थोपसम्पदुच्यते-तत्र साधूनामियं सामाचारी-सर्वत्रैवाध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह
इत्तरियं पि न कप्पइ अविदिन्नं खलु परोग्गहाईसुं । चिडित्तु निसिइत्तु व तइयव्वयरक्खणढाए ॥ ७२१ ॥ ___ व्याख्या-'इत्वरमपि' स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावग्रहानेकभेदप्रख्यापकः, किं न कल्पते इति !, आह-'स्थातुं' कायोत्सर्ग कर्नु 'निषीदितुम्' उपवेष्टुं, किमित्यत आह-'तइयबयरक्खणहाए' अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थ, तस्माद्भिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम् , अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं, तदभावे देवतां, यस्याः सोऽवग्रह इति गाथार्थः ॥ उक्ता दशविधसामाचारी, साम्प्रतमुपसंहरन्नाह
AGROGRAMMARRECTOR
॥२७॥
Jain Educati
o nal
For Personal & Private Use Only
Lainelibrary.org