________________
आगन्तुकस्तु यावत्कथिकः, ततोऽसौ वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिभ्यः कार्य्यते शेषं पूर्ववद्, अन्यतमो वाऽवधिकालं यावद्धार्यत इत्येवं यथाविधिना विभाषा कार्येति । उक्ता वैयावृत्योपसम्पत्, साम्प्रतं क्षपणोपसम्पत्प्रतिपाद्यते चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः - इत्वरो यावत्कथिकश्च यावत्कथिक उत्तरकालेऽनशनकर्त्ता, इत्वरस्तु द्विधा - विकृष्टक्षपकोऽविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्ट इति । तत्रायं विधिः - अविकृष्टक्षपकः खल्वाचार्येण प्रष्टव्यः - हे आयुष्मन् ! पारणके त्वं कीदृशो भवसि ?, यद्यसावाह - ग्लानोपमः, ततोऽसावभिधातव्यः - अलं तव क्षपणेन, स्वाध्यायवैयावृत्यकरणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते - विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव तत्राप्याचार्येण गच्छः प्रष्टव्यो - यथाऽयं क्षपक उपसम्पद्यत इति, अनापृच्छय गच्छं सङ्गच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते - यथाऽस्माकं एकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ प्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुमन्यते ततोऽसाविष्यत एव तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्य, यत्पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीया इत्यलं प्रसङ्गेन इति गाथार्थः ॥ चारित्रोपसम्पद्विधिविशेषप्रतिपादनायाह
Jain Educational
For Personal & Private Use Only
Jainelibrary.org