________________
आवश्यक
॥२७॥
एवं तावद् ज्ञानोपसम्पद्विधिरुक्तः, दर्शनोपसम्पद्विधिरप्यनेनैव तुल्ययोगक्षेमत्वादुक्त एव वेदितव्यः, तथा च दर्शन- हारिभद्री प्रभावनीयशास्त्रपरिज्ञानार्थमेव दर्शनोपसम्पदिति ॥ अधुना चारित्रोपसम्पद्विधिमभिधातुकाम आह
यवृत्ति: | दुविहा य चरित्तंमी वेयावच्चे तहेव खमणे य । णियगच्छा अण्णंमि य सीयणदोसाइणा होति ॥७१८ ॥
विभागात व्याख्या-द्विविधा च चारित्रविषयोपसम्पद् वैयावृत्त्यविषया तथैव क्षपणविषयाच, आह-किमत्रोपसम्पदा ?, स्वगच्छ एव तत्कस्मान्न क्रियत इति, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति गच्छस्य, आदिशब्दादन्यभा-1 वादिपरिग्रह इति गाथार्थः॥ इत्तरियाइविभासा वेयावचंमि तहेव खमणे य।अविगिट्ठविगिट्ठमि य गणिणो गच्छस्स पुच्छाए ॥७१९॥ ___ व्याख्या-इह चारित्रार्थमाचार्यस्य कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वैयावृत्यकरोऽस्ति वा न वा, तत्रायं विधिः-यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स इत्वरोवा स्याद्यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्यते, इतरस्तू|पाध्यायादिभ्यो दीयते इति, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते, इतरस्तूपाध्यायादिभ्यो दीयत इति, अथ | नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यत इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो |
॥२७॥ नेच्छति तत आगन्तुको विसर्ग्यत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वित्वर इत्यत्राप्येवमेव भेदाः कर्त्तव्याः यावदागन्तुको विसयंते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राम्यत इति, अथ वास्तव्यः खल्वित्वरः
Jain Education
al nal
For Personal & Private Use Only
jainelibrary.org