________________
C
व्याख्या-निश्चयतो दुर्जेयं-को भावे कस्मिन्-प्रशस्तेऽप्रशस्ते वा वत्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथम प्रव्रजितः सन्ननुपलब्धातिचार इति गाथार्थः ॥ आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते. व्यवहारप्रामाण्यात्, तस्यापि च बलवत्त्वाद् , आह च भाष्यकार:|ववहारोऽविहु बलवं जं छउमत्थंपि वंदई अरहा।जा होइ अणाभिण्णो जाणतो धमयं एयं ॥ १२३॥ (
भाग | व्याख्या-व्यवहारोऽपि च बलवानेव, 'यद्' यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादि वन्दते 'अर्हन्नपि' केवल्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा ?, नेत्याह-'जा होइ अणाभिन्नो'त्ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन् धर्मतामेतां व्यवहारनयबलातिशयलक्षणामिति गाथार्थः॥ आह-यद्येवं सुतरां वयापर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम् , आशातनाप्रसङ्गादिति, उच्यते, एत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाओ । भासंतगजेट्ठगस्स उ कायव्वं होइ किइकम्मं ॥ ७१७ ॥
व्याख्या-'अत्र तु' व्याख्याप्रस्ताववन्दनाधिकारे 'जिनवचनात् तीर्थकरोक्तत्वात् तथा च अवन्द्यमाने सूत्राशातनादोपबहुत्वात् 'भाषमाणज्येष्ठस्यैव' प्रत्युच्चारणसमर्थस्यैवेत्यर्थः, किं ?, कर्त्तव्यं भवति 'कृतिकर्म' वन्दनमिति गाथार्थः॥
%ERCRECIC
* प्रामोतीत्यतः प्र..
Education
For Personal & Private Use Only
www.janelibrary.org