________________
है लानां चितेः पुद्गलानामेव केषाञ्चित् शरणात् तेषामेवावयवसमाधानात् कायः-शरीरं, सोऽपि चतुर्द्धा नामादिभिः, तत्र
द्रव्यकायो ये शरीरत्वयोग्याः अगृहीतास्तत्स्वामिना च जीवेन ये मुक्ता यावत्तं परिणाम न मुञ्चन्ति तावद द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसम्प्रयुक्ताश्च, अनेन त्रिविधेन करणभूतेन, त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतो योगः संबध्यते, भयान्त इति पूर्ववत् , प्रतिक्रमामि-निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी निन्दा गुरुसाक्षिकी गहेंति, किं जगुप्से ?-'आत्मानम् अतीतसावद्ययोगकारिणं, 'व्युत्सृजामीति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामि-त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपद| विग्रही यथासम्भवमुक्ती, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकारःअक्खलिअसंहिआई वक्खाणचउक्कए दरिसिअंमि । सुत्तप्फासिअनिजुत्तिवित्थरत्यो इमो होइ ॥ १०१५॥ __ व्याख्या-'अक्खलिआइत्ति अस्खलितादौ सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं ?सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः ॥ १०१५ ॥
करणे १ भए अ२ अंते ३ सामाइअ ४ सव्वए अ५ वजे अ६। जोगे ७ पच्चक्खाणे ८ जावज्जीवाइ ९तिविहेणं १०॥ १०१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org