________________
द्रीया
आवश्यक
वक्ष्यामश्चोपरिष्टादिति, अन्तो-विनाशः, भयस्यान्त इत्ययमेव पदविग्रहः, पदपृथक्करणं पदविग्रह इति, सामायिकपदार्थः हारिभ- वित्, सर्वमित्यपरिशेषवाची शब्दः, अवयं-पापं सहावद्येन सावद्यः-सपाप इत्यर्थः, युज्यत इति योगः-व्यापारस्तं,
प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आडू आभिमुख्ये ख्या प्रकथने. ततश्च प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य करोमि ॥४५५॥
प्रत्याख्यामीति, अथवा प्रत्याचक्ष इति 'चक्षिक व्यक्तायां वाचि' अस्य प्रत्यापूर्वस्यायमर्थः प्रतिषेधस्यादरेणाभिधानं | करोमि प्रत्याचक्षे, 'यावज्जीवये त्यत्र यावच्छब्दः परिमाणमर्यादावधारणवचनः, तत्र परिमाणे यावत् मम जीवनपरिमाणं तावत् प्रत्याख्यामीति, मर्यादायां यावज्जीवनमिति, मरणमर्यादाया आरान्न मरणकालमात्र एवेति, अवधारणे यावज्जीवनमेव तावत् प्रत्याख्यामि, न तस्मात् परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते तया, अथवा प्रत्याख्यानक्रिया गृह्यते, यावज्जीवो यस्यां सा यावज्जीवा तया, 'त्रिविध मिति तिस्रो विधा यस्य सावधयोगस्य स त्रिविधः,
स च प्रत्याख्येयत्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योग-मनोवाकायव्यापारलक्षणं, 'कायतवाङमनः कर्मयोगः' (तत्वा० अ०६ सू०१) इति वचनात् , त्रिविधेनेति करणे तृतीया, 'मनसा वाचा कायेन' तत्र
'मन ज्ञाने' मननं मन्यते वाऽनेनेति असुन्प्रत्यये मनः, तच्चतुर्दा-नामस्थापनाद्रव्यभावः, द्रव्यमनस्तद्योग्यपुद्गलमयं, |भावमनो मन्ता जीव एव, 'वच परिभाषणे' वचनम् उच्यते वाऽनयेति वाक्, साऽपि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाकू शब्दपरिणामयोग्यपुद्गला जीवपरिगृहीता भाववाकू पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः, 'चिजू चयने' चयनं | चीयते वाऽनेनेति “निवासचितिशरीरोपसमाधानेष्वादेश्च का" (पा०३-३-४१) इति कायः, जीवस्य निवासात् पुद्ग
॥४५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org