SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ इह च सूत्रानुगम एव (सूत्र) अहीनाक्षरादिगुणोपेतमुच्चारणीयं, तद्यथा-अहीनाक्षरमनत्यक्षरमव्याविद्धाक्षरमस्खलितममिलितमव्यत्यावेडितं प्रतिपूर्ण परिपूर्णघोष कण्ठोष्ठविप्रमुक्तं वाचनोपगतम् , इत्यमूनि प्रागू व्याख्यातत्वान्न व्याख्यायन्ते, ततस्तस्मिन्नच्चरिते सति केषाञ्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति, केचन वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्तत इति, तल्लक्षणं चेदं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्डिधा ॥१॥ इति, तत्रास्खलितपदोच्चारणं. संहिता, अथवा-परः सन्निकर्षः संहिता, यथा करेमि भंते ! सामाइयमित्यादि जाव वोसिरामित्ति । पदं च पञ्चधा, तद्यथा-नामिकं नैपातिकम् औपसर्गिकम् आख्यातिक मिश्र चेति, तत्र अश्व इति नामिकं खल्विति नैपातिकं परीत्यौपसर्गिकं धावतीत्याख्यातिकं संयत इति मिश्रम्, अथवा सुबन्तं तिङन्तं च, 'सुप्तिङन्तं पद' (पा०१-४-१४) मिति वचनात् , तत्र करोमि भयान्त ! सामायिक, सर्व सावधं योगं प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेन, मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजाने, तस्य भयान्त ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामीति पदानि । अधुना पदार्थः स च चतुर्विधः, तद्यथा-कारकविषयः समासविषयस्तद्धितविषयो निरुक्तिविषयश्च, तत्र कारकविषयः-पचतीति पाचकः, समासविषयःराज्ञः पुरुषो राजपुरुष इति, तद्धितविषयः-वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयः-भ्रमति चरौति च भ्रमरः, अत्रापि, 'डुकृञ् करण' इत्यस्य लट्प्रत्ययान्तस्य 'तनादिकृतभ्य उ (पा० ३-१-७९) रिति उत्त्वे गुणे रपरत्वे च कृते करोमीति भवति अभ्युपगमश्चास्यार्थः, एवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्तव्यः, इह तु ग्रन्थविस्तरभयानोक्त इति, भयं प्रतीतं, तथा Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy