________________
व्याख्या - इह लोकेऽर्थकामौ भवतः, तथाऽऽरोग्यं भवति नीरुजत्वमित्यर्थः, एते चार्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाह - अभिरतिश्च भवति, आभिमुख्येन रतिः - अभिरतिः इह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वान्निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा 'सिद्धिश्च' मुक्तिश्च, | तथा स्वर्गः सुकुलप्रत्यायातिश्च परलोक इत्यामुष्मिकं फलं ॥ इह च सिद्धिश्चेत्यादिक्रमः प्रधानफलापेक्ष्युपायख्यापनश्च (नार्थः), तथाहि - विरला एवैकभवेन सिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थान्तरमनुभवन्तीति गाथार्थः ॥ १०११ ॥ साम्प्रतं यथाक्रममेवार्थादीनधिकृत्योदाहरणानि प्रतिपादयन्नाह -
| इहलोगंमि तिदंडी १ सादिव्वं २ माउलिंगवण ३ मेव । परलोइ चंडपिंगल ४ इंडिअ जक्खो ५ अदिता । १०१२ |
Jain Educational
व्याख्या— अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि - नमोक्कारो अत्थावहो, कहंति, उदाहरणं जहा एगस्स सावगस्स पुत्तो धम्मं न लएइ, सोऽवि सावओ कालगओ, सो विवहाराहओ एवं चैव विहरइ । अन्नया तो घरसमीवे परिधायओ आवासिओ, सो तेण समं मित्तिं करेइ, अन्नया भणइ - आणेहि निरुवयं अणाहमडयं जओ ते ईसरं करेमि, तेण मग्गिओ लद्धो उबद्धओ मणुस्सो, सो मसाणं णीओ, जं च तत्थ पाउग्गं । सो य दारओ
१ नमस्कारोऽयवहः, कथमिति ?, उदाहरणम्-यथैकस्य श्रावकस्य पुत्रो धर्मं नाश्रयति, सोऽपि श्रावकः कालगतः, स व्यवहाराहत एवमेव विहरति । अन्यदा तेषां ( श्रावकजनानां ) गृहसमीपे परिव्राजक आवासितः, स तेन समं मैत्रीं करोति, अन्यदा भणति आनय निरुपहतं अनाथमृतक यतस्त्वां ईश्वरं करोति, तेन मार्गितं लब्ध उद्वद्धो मनुष्यः, स श्मशानं नीतः, यच्च तत्र प्रायोग्यं । स च दारकः * ०ऽवि बाहिराहओ ( व्यसनोपहतः ) ।
For Personal & Private Use Only
www.jainelibrary.org