________________
उक्त आचार्यनमस्काराधिकारः ॥ साम्प्रतमुपाध्यायनमस्काराधिकारः, तत्रोपाध्याय इति कः शब्दार्थ; ?, उच्यते-'इङ्अध्ययने' इत्यस्य 'इडश्चेति (पा०३-३-२१) घञ् उपाध्यायः, उपेत्याधीयतेऽस्मात् साधवः सूत्रमित्युपाध्यायः, सच नामादिभेदाच्चतुर्विध इति, आह चनामंठवणादविए भावंमि चउव्विहो उवज्झाओ । व्वे लोइअ सिप्पाइ निहगा वा इमे भावे ॥ ९९६ ॥ ||
व्याख्या-इयं हि तत्त्वत आचार्यगाथातुल्ययोगक्षेमैवेति न प्रतन्यते, नवरं निहवा वेति यदुक्तं तत्र ते ह्यभिनिवेशदोषेणैकमपि पदार्थमन्यथा प्ररूपयन्तो मिथ्यादृष्टय एव इत्यतो द्रव्योपाध्याया इति ॥
बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहेहिं । तं उवासंति जम्हा उवझाया तेण खुर्चति ॥ ९९७॥ | व्याख्या-द्वादशाङ्ग आचारादिभेदात् 'जिनाख्यातः' अर्हत्प्रणीतः स्वाध्यायः वाचनानिबन्धनत्वात् इह सूत्रमेव गृह्यते, कथितः 'बुधैः' गणधरादिभिः, य इति गम्यते, 'तं' स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्यायास्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेरिति गाथार्थः ॥ ९९७ ॥ साम्प्रतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थ निरूपयन्नाहउत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे । एएण हुंति उज्झा एसो अन्नोऽवि पज्जाओ ॥ ९९८ ॥
व्याख्या-उ इत्येतदक्षरं उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृतशैल्या एतेन कारणेन भवति उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः, एषोऽन्योऽपि पर्याय इति गाथार्थः ॥ ९९८ ॥ अथवा
Jain Education International
For Personal & Private Use Only
www.janelibrary.org