________________
आवश्यक हारिभद्रीया
वि०१
॥४४९॥
उत्ति उवओगकरणे वत्तिअ पावपरिवजणे होइ । झत्ति अ झाणस्स कए उत्ति अ ओसवणा कम्मे ॥ ९९९ ॥ 15 नमस्कार __व्याख्या-निगदसिद्धा, नवरमुपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कमाण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण ॥९९९॥'उवज्झायनमोकारो' ४ इत्यादिगाथापूगः सामान्येनार्हन्नमस्कारवदवसेयः, विशेषस्तु सुगम एवेति ॥
उक्त उपाध्यायनमस्काराधिकारः॥ साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणूप्रत्ययान्तस्य साधुरिति भवति, अभिलषितमर्थं साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनामं १ ठवणासाहू २ वसाहू अ ३ भावसाहू अ४। व्वंमि लोइआई भावंमि अ संजओ साहू ॥१०००॥ व्याख्या-वस्तुतो गतार्थेवेति न विवियते ॥ द्रव्यसाधून प्रतिपादयन्नाहघडपडरहमाईणि उ साहंता हुंति व्वसाहुत्ति । अहवावि व्वभूआ ते हुंती व्वसाहुत्ति ॥१००१॥ व्याख्या-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ॥ भावसाधून प्रतिपादयन्नाहनिव्वाणसाहए जोए, जम्हा साहति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥ १००२॥
॥४४९॥ व्याख्या-निर्वाणसाधकान् 'योगान्' सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्वात् , तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत् , तस्मात्ते भावसाधव इति गाथार्थः ॥ १००२ ॥
KAKACASSACROSS
For Personal & Private Use Only
Main Education International
Linelibrary.org