SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आवश्यक- द्रव्यभूत आचार्य द्रव्याचार्यः, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचार्यः-लौकिको | नमस्कार. हारिभ- लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको वि०१ द्राया त गृह्यते, अन्ये त्वेवं भेदमकृत्वौषत एवैनमपि द्रव्याचार्य व्याचक्षत इति गाथार्थः ॥ ९९३ ॥ अधुना लोकोत्तरान् भावा॥४४८॥ चार्यान् प्रतिपादयन्नाह। पंचविहं आयारं आयरमाणा तहा पभासंता। आयारं दंसंता आयरिया तेण वुचंति ॥ ९९४ ॥ व्याख्या-'पञ्चविध पञ्चप्रकारं-ज्ञानदर्शनचारित्रतपोवीर्यभेदात् , 'आचार' मिति आङ् मर्यादायां चरणं चार:मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च-काले विणए बहुमाणे' इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थादू व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः ॥ ९९४ ॥ अमुमेवार्थ स्पष्टयन्नाह| आयारो नाणाई तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य ॥ ९९५ ॥ व्याख्या-'आचारः' पूर्ववत् ज्ञानादिपञ्चप्रकारः, तस्य आचारस्याऽऽचरणात् प्रभाषणाद्वा, वाशब्दाद् दर्शनाद्वा हेतोये 8॥४४८n मुमुक्षुभिर्गुणैर्वा ज्ञानादिभिराचर्यन्ते ते भावाचार्या उच्यन्ते, एतच्चाऽऽचरणाद्यनुपयोगतोऽपि सम्भवति यतः अत आह'भावाचारोपयुक्ताश्च' भावार्थमाचारो भावाचारः तदुपयुक्ताश्चेति गाथार्थः ॥ ९९५ ॥ आयरियणमोकारो४ इत्यादिगाथाप्रपञ्चः सामान्येनाहन्नमस्कारवदवसेयः विशेषतस्तु सुगम एवेति ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy