________________
Jain Education
उन्मुक्त कर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलक्केशाभावादिति गाथार्थः ॥ ९८७ ॥ साम्प्रतमुपसंहरन्नाह—
निच्छिन्नसव्वदुक्खा जा जरामरणबंधणविमुक्का | अव्वाबाहं सुक्खं अणुहुंती सासयं सिद्धा ॥ ९८८ ॥ व्याख्या - वस्तुतो व्याख्यातैवेति न प्रतन्यते ॥
सिद्धाण नमोकारो जीवं० ॥ ९८९ ॥ सिद्धाण नमुक्कारो धन्नाण० ॥ ९९० ॥ सिद्धाण नमुक्कारो एवं० ॥ ९९१ ॥ सिद्धाण नमुक्कारो सव्व० बिइअं होइ मंगलं ॥ ९९२ ॥
गाथा समूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते, - 'चर गतिभक्षणयोः' इत्यस्य ( चरेः ) आङि वा गुरा ( पा० ३| १ - १०० वार्त्तिके) विति यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽह
नामंठवणाद्वि भावंमि चव्विहो उ आयरिओ । दव्वंमि एगभविआई लोइए सिप्पसत्थाई ॥ ९९३ ॥
व्याख्या—नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यों सुगमौ द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनादृत्य ज्ञशरीरादिव्यतिरिक्तं द्रव्याचार्यमभिधातुकाम आह— 'द्रव्य' इति द्रव्याचार्यः, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्
mational
For Personal & Private Use Only
ainelibrary.org