________________
आवश्यकहारिभद्रीया
॥४४६॥
व्याख्या-सिद्धस्य सम्बन्धिभूतः सुखराशिः, सुखसङ्कात इत्यर्थः, 'सर्बाद्धापिण्डितः' सर्वकालसमयगुणितः यदि
नमस्कार भवेदित्यनेन कल्पनामात्रतामाह, सः 'अनन्तवर्गभक्तः' अनन्तवर्गापवर्गितः सन् समीभूत एवेति भावार्थः, 'सर्वाकाशे
वि०१ लोकालोकाकाशे न मायात्, अयमत्र भावार्थः-इह किल विशिष्टाहादरूपं सुखं गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिः तमाह्लादमवधीकृत्यैकैकगुणवृद्धितारतम्येन तावदसावाह्लादो विशेष्यते यावदनन्तगुणवृद्ध्या निरतिशयगुणनिष्ठां गतः, ततश्चासावत्यन्तोपमातीतैकान्तौत्सुक्यविनिवृत्तिस्तिमिततमकल्पश्चरमाह्वाद एव सदा सिद्धानामिति, तस्माच्चारतः प्रथमाच्चोर्ध्वमपान्तरालवर्तिनो ये गुणतारतम्येनाहादविशेषास्ते सर्वाकाशप्रदेशादिभ्योऽपि भूयांस इत्यतः किलोक-'सबागासे ण माएज'त्तीत्यादि, अन्यथा नियतदेशावस्थितिः तेषां कथमिति सूरयोऽभिदधतीति, तथा चैततसंवाद्यार्षवेदेऽप्युक्तम् , इत्यलं व्यासनेनेति गाथार्थः ॥९८२॥ साम्प्रतमस्यैवंभावस्यापि सतः निरुपमतां प्रतिपादयन्नाहजह नाम कोइ मिच्छो नगरगुणे बहुविहे विआणंतो। न चएइ परिकहेउं उवमाइ तहिं असंतीए ॥९८३ ॥ __व्याख्या-यथा नाम कश्चित् म्लेच्छः 'नगरगुणान्' सद्हनिवासादीन् 'बहुविधान्' अनेकप्रकारान् विजानन्नरण्यगतः सन्नन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुं, कुतो निमित्तात् १, इत्यत आह-उपमायां तत्रासत्यामिति गाथाक्षरार्थः ॥९८३ ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-एगो महारण्णवासी मिच्छो रणे चिट्ठइ, इओ य एगो राया आसेण अवहरिउं तं अडविं पवेसिओ, तेण दिहो, सक्कारेऊण जणवयं णीओ, रण्णावि सो णयरं, पच्छा उवयारित्ति गाढमुवचरिओ १एको महारण्यवासी म्लेच्छोऽरण्ये तिष्ठति, इतश्वको राजाऽश्वेनापहृत्य तामटवीं प्रवेशितः, तेन दृष्टः, सरकार्य जनपदं नीतः, राज्ञाऽपि स नगर, 15
॥४४६॥ पश्चादुपकारीति गाढमुपचरितः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org