SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ जहा राया तहा चिट्ठा धवलघराई भोगेणं, विभासा, कालेण रण्णं सरिउमारद्धो, रण्णा विसज्जिओ गओ, रण्णिगा पुच्छंतिकेरिसं णयरंति?, सो विआणतोऽवि तत्थोवमाऽभावा ण सक्कइ णयरगुणे परिकहिउं । एस दिहंतो, अयमत्थोवणओत्ति - इअ सिद्धाणं सुक्खं अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं ॥९८४॥ व्याख्या -' इय' एवं सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्यैौपम्यमिति, तथाऽपि बालजनप्रतिपत्तये किञ्चिद्विशेषेण 'एत्तो'त्ति आर्यत्वादस्य सादृश्यमिदं वक्ष्यमाणलक्षणं शृणुत, वक्ष्य इति गाथार्थः ॥ जह सव्वकामगुणिअं पुरिसो भोत्तूण भोअणं कोइ । तण्हालुहाविमुको अच्छिन जहा अभिअतित्तो ॥ ९८५ ॥ व्याख्या- 'यथा' इत्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं सकलसौन्दर्यसंस्कृतं पुरुषो भुक्त्वा भोजनं कश्चित्, भुज्यत इति भोजनं, तृक्षुद्विमुक्तः सन् आसीत यथाऽमृततृप्तः, अबाधारहितत्वाद्, इह च रसनेन्द्रियमेवाधिकृत्येष्ट विषयप्राप्यौत्सुक्यविनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्याऽशेषौत्सुक्यनिवृत्त्युपलक्षणार्थम्, अन्यथा बाधान्तरसम्भवात् सुखाभाव इति उक्तं च- " वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाघ्यस्मरकथाबद्धगीतेन स्तिमितः सदा ॥ १॥ कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि ॥ २ ॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः । पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः ॥ ३ ॥ नानारससमायुक्तं भुक्त्वाऽन्नमिह मात्रया । पीत्वोदकं च १ यथा राजा तथा तिष्ठति धवलगृहादिभोगेन, विभाषा, कालेनारण्यं स्मर्तुमारब्धः, राज्ञा विसृष्टो गतः, आरण्यकाः पृच्छन्ति-कीदृशं नगरमिति ?, स विजानन्नपि तत्रोपमाऽभावान्न शक्नोति नगरगुणान् परिकथयितुं । एष दृष्टान्तः, अयमत्रोपनय इति । Jain Education International For Personal & Private Use Only omjainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy