________________
OCESSEURUSHIRISH
स्तिर्यक् चैतावति क्षेत्रे तदसम्भवात् , तथा चाऽऽह-द्वादशभिर्योजनैः सिद्धिः ऊर्ध्वं भवति, कुतः? सर्वार्थसिद्धाद् विमानवरात्, अन्ये तु 'सिद्धि' लोकान्तक्षेत्रलक्षणामेव व्याचक्षते, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः ॥ ९६० ॥ ४॥ साम्प्रतमस्या एव स्वरूपव्यावर्णनायाहनिम्मलदगरयवण्णा तुसारगोखीरहारसरिवन्ना । उत्ताणयछत्तयसंठिआ य भणिया जिणवरेहिं ॥ ९६१॥
व्याख्या-निर्मलदगरजोवर्णाः, तत्र दगरजः-इलक्ष्णोदककणिकाः, तुषारगोक्षीरहारतुल्यवर्णाः, तुषार:-हिमं, गोक्षीरादयः प्रकटार्थाः । संस्थानमुपदर्शयन्नाह-उत्तानच्छत्रसंस्थिता च भणिता जिनवरैरिति, उत्तानच्छत्रवत् संस्थितेति गाथार्थः॥ ९६१ ॥ अधुना परिधिप्रतिपादनेनास्या एवोपायतःप्रमाणमभिधित्सुराहएगा जोअणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो चेव सया अउणवन्ना ॥ ९६२॥ | व्याख्या-निगदसिद्धा, नवरं पञ्चचत्वारिंशंयोजनलक्षप्रमाणक्षेत्रस्याल्पमन्यत् परिध्याधिक्यं प्रज्ञापनातोऽवसेयम् , इहौघत इदमिति ॥९६२॥ इदानीमस्या एव बाहुल्यं प्रतिपादयन्नाह
बहुमज्झदेसभागे अद्वैव य जोअणाणि बाहलं चरमंतेसु अतणुई अंगुलऽसंखिजईभागे ॥ ९६३ ॥ व्याख्या-मध्यदेशभाग एव बहुमध्यदेशभागस्तस्मिन्नष्टैव योजनानि बाहुल्यम्-उच्चैस्त्वं 'चरिमान्तेषु' पश्चिमान्तेषु तन्वी, कियता तनुत्वेन ? इत्यत्राह-अङ्गुलासङ्ख्येयभागं यावत् तन्वीति गाथार्थः॥ ९६३ ॥ सा पुनरनेन क्रमेणेत्थं तन्वीति दर्शयति
dain Educa
t ional
For Personal & Private Use Only
w.jainelibrary.org