SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥४४२ ॥ भवन्ति इत्यनुस्वारलोपोऽत्र द्रष्टव्यः, अथवैकवचनतोऽप्येवमुपन्यासः सूत्रशैल्याऽविरुद्ध एव यतोऽन्यत्रापि प्रयोगः'वत्थगंधमलंकारं इत्थीओ सयणाणि य । अच्छंदा जेण भुंजंति ण से चाइत्ति वुच्चई ॥ १ ॥' इत्यादि गाथार्थः ॥ ९५८ ॥ इत्थं चोदकपक्षमधिकृत्याऽऽह— अलोए पहिया सिडा, लोअग्गे अ पट्टिआ । इहं बोंदिं चहत्ता णं, तत्थ गंतूण सिज्झई ॥ ९५९ ॥ व्याख्या- 'अलोके' केवलाकाशास्तिकाये 'प्रतिहताः' प्रतिस्खलिताः सिद्धा इति, इह च तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धिविघातः, प्रदेशानां निष्प्रदेशत्वादिति सूक्ष्मधिया भावनीयं, तथा 'लोकाग्रे च' पञ्चास्तिकायात्मक लोकमूर्धनि च प्रतिष्ठिताः, अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा 'इह' अर्धतृतीयद्वीपसमुद्रान्तः 'बोन्दि' तनुं 'त्यक्त्वा' परित्यज्य सर्वथा किम् ? - 'तत्र' लोकाग्रं 'गत्वा' अस्पृशद्गत्या समयप्रदेशान्तरमस्पृशन्नित्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति सिद्ध्यति वेति गाथार्थः ॥ ९५९ ॥ तत्र 'लोकाम्रे च प्रतिष्ठिता' इति यदुक्तं तदङ्गीकृत्याssह-क पुनर्लोकान्त इत्यत्रान्तरमाह ईसीप भाराए सीआए जोअणंमि लोगंतो । बारसहिं जोअणेहिं सिद्धी सव्वहसिद्धाओ ॥ ९६० ॥ व्याख्या – ईषत्प्राग्भारा-सिद्धिभूमिस्तस्याः 'सीताया' इति द्वितीयं भूमेर्नामधेयं योजने लोकान्त ऊर्ध्वमिति गम्यते, अध १ लोकाम्तालोकाद्योः संगतत्वात् सिद्धानां च लोकान्तावस्थाननियमात् अलोकप्रदेशेष्वंशेन गत्वा निवर्त्तनरूपं स्खलनं प्रदेशानां निष्प्रदेशत्वाच संगतम्, अग्रे तु धर्माद्यभावान स्यादेव गमनं * संबन्धे विधातः Jain Education International For Personal & Private Use Only नमस्का ० वि० १ ॥४४२॥ www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy