________________
SSSSSSCHREIBUNG
हृदयं, सा च समुदघातानन्तरभाविन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन् , भिन्नमहर्त एवेत्यर्थः. वजन्ति-गच्छन्ति जिनाः-केवलिनः 'समुद्घातं' प्राक्प्ररूपितस्वरूपमिति गाथार्थः ॥ ९५६ ॥ साम्प्रतं यदुक्तं 'शैलेशी प्रतिपद्यते सिध्यति चे ति, तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह.च कर्ममुक्तस्य तद्देशनियमेन गतिर्नोपपद्यते | इति मा भूदव्युत्पन्नविभ्रम इत्यतस्तन्निरासेनेष्टार्थसिद्ध्यर्थमिदमाह
लाउअ एरंडफले अग्गी धूमे उसू धणुविमुक्के । गइपुव्वपओगेणं एवं सिद्धाणवि गईओ ॥ ९५७ ॥ SI व्याख्या-अलाबु एरण्डफलम् , अग्निधूमी, इषुर्धनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निबन्धना-1
भावेऽपि देशादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः॥ ९५७ ॥ अधुनाभावार्थः प्रयोगैर्निदश्यते-तत्र कमविमुक्तो जीवः सकृदूर्ध्वमेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोवंगामितथाविधालाबुवत् तथा छिन्नबन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत तथा स्वाभाविकपरिणामत्वादग्निधूमवत् तथा पूर्वप्रयुक्ततक्रियातथाविधसामर्थ्यानुःप्रयत्नेरितेषुवद्, इषु:-शर इति गाथार्थः॥ ९५७ ॥ एवं प्रतिपादिते सत्याह
कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिया । कहिं बोदिं चइत्ता णं, कत्थ गंतूण सिज्झई ? ॥ ९५८॥ व्याख्या-कप्रतिहता व प्रतिस्खलिता इत्यर्थः सिद्धाः'मुक्ताः,तथा 'क्क सिद्धाःप्रतिष्ठिताकव्यवस्थिता इत्यर्थः, तथा क बोन्दिं त्यक्त्वा' क तनुं परित्यज्येत्यर्थः, इह बोन्दिः तनुः शरीरमित्यनान्तरं, तथा व मत्वा 'सिध्यन्ति' निष्ठितार्था
Jain Education International
For Personal &Private Use Only
www.jainelibrary.org