SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ वि० आवश्यक- तो कयजोगनिरोहो सेलेसी भावणामेइ ॥ ६ ॥ त्ति' ततः शैलेशी प्रतिपद्यते, तत्र शिलाभिनिवृत्तः शिलानां वाऽय-11 नमस्कार हारिभ- मित्यण शैल:-पर्वतस्तेषामीशः-प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरतासाम्यादवस्थेति शैलेशी, अथवा-अशैलेशः। द्रीया सन्नभृततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधा वस्थेति शैलेशी. इयं च मध्यमप्रतिपत्त्या इस्वपञ्चाक्षरोगिरणमात्रं कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ॥४४१॥ ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानं, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा ऋजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः॥ ९५५ ॥ अनन्तरगाथोपन्यस्तसमुद्घातमात्रापेक्षः संबन्धः। आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति • काऽत्रोपपत्तिरिति?, उच्यते, प्रयत्नविशेषः, किं निदर्शनम् ? इत्यत आह जह उल्ला साडीआ आसुसुक्कइ विरल्लिआ संती। तह कम्मलहुअसमए वच्चंति जिणा समुग्घायं ॥९५६॥ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, 'आशु' शीघ्रं 'शुष्यति' शोषमुपयाति, 'विरल्लिता' विस्तारिता सती भवति, तथा तेऽपि प्रयत्नविशेषात् कर्मोदकमधिकृत्य शुष्यन्तीति शेषः, यतश्चैवमतः 'कर्मलघुतासमये व्रजन्ति जिनाः समुद्घात मिति तत्र कर्मण-आयुष्कस्य लघुता कर्मलघुता, लघोर्भावो लघुता-स्तोकतेत्यर्थः, I ॥४४॥ तस्याः समयः कालः कर्मलघुतासमयः, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिर्लघुता कर्मलघुता, जीवस्येति १ ततः कृतयोगनिरोधः शैलेशीभावनामेति ॥ ६॥ For Personal & Private Use Only Allainelibrary.org JainEducation
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy