________________
BALESETEOSTUSOSASTOS
योगत्रयमपि व्यापारयेत् , तदर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा| त प्रयुङ्क्ते, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततो
न्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षड्भिमासैरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष'मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात् , एवं च सति ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनःपर्याप्तिनिवृत्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापार निरुध्य च 'पजत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मणोदबाई तबावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए २ निरंभमाणो सो। मणसो सबनिरोहं करेजासंखेजसमएहिं ॥२॥ पजत्तमेत्तबेंदियजहन्नवयजोगपज्जया जे य । तदसंखगुणविहीणे समए समए निरंभंतो ॥३॥ सबवइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहमपणगस्स पढमसमयोववन्नस्स ॥४॥जो किर जोगो तद|संखेजगुणहीणमेक्किक्के । समए निरंभमाणो देहतिभागं च मुंचतो॥५॥ रुंभइ स कायजोगं संखाईएहि चेव समएहिं ।।
पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगस्य । भवन्ति मनोगव्याणि तद्व्यापारश्च यावन्मात्रः ॥1॥ तदसंख्यगुणविहीनं समये समये निरुन्धन् सः। मनसः सर्वनिरोधं कुर्यादसङ्ख्येयसमयैः ॥ २॥ पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवचःपयवा यावन्तः । तदसङ्ख्येयगुणविहीनान् समये समये निरुन्धन् ।३ ॥ सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नख ॥ १॥ यः किल जघन्यो योगस्तदसङ्ख्येयगुणहीनमेकैकस्मिन् । समये निरुन्धन देहविभागं च मुञ्चन् ॥ ५ ॥ रुणद्धि स काययोर्ग संख्यातीतैरेव समयैः।
Jain Education a
nal
For Personal & Private Use Only
nelibrary.org