SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥४४०॥ | दिग्द्वयप्रसारणान्मन्थसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु परिपूरितं भवति, मन्थान्त-13 नमस्कार राण्यपूरितानि भवन्ति, अनुश्रेणिगमनात , चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च वि०१ सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तामात् प्रतिलोमं मन्थान्तराणि संहरति-जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचात् , अष्टमसमये दण्डमुपसंहृत्य शरीरस्थ एव भवति । अमुमवार्थ चेतसि निधायोक्तं दण्डकपाट मन्थान्तराणि संहरणता प्रतिलोममिति गम्यते, शरीरस्थ इति वचनात्, न चैतत् स्वमनीषिकाव्याख्यानं, यत उक्तम्-प्रथमे समये दण्डं कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२॥” इति । तस्येदानी समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्चमनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते ?, तत्र हि मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् , काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरेवौदारिकात् बहुतरप्रदेशव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तम्-“औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। | मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भव- ॥४४०॥ त्यनाहारको नियमाद् ॥२॥” इति, कृतं प्रसङ्गेन । भाषायोगनिरोध इति, कोऽर्थः -परित्यक्तसमुद्घातः कारणवशाद् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy