________________
द्रीया
॥४३९॥
आवश्यक- दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावनां, यद्भव्यकर्म 'सेसित' मिति श्लेषितमिति संश्लिष्टं लेश्यानुभावात् अष्टधा हारिभ• सितमित्यादि पूर्ववत्, अथवाऽन्यथा व्याख्यायते - दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया स्नेहबन्धनयोग्यत्वाद्वा रज इत्युच्यते, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्कर्माभिधानेन सर्वनाम्नो निरर्थकत्वात्, प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभव्यस्व सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते जन्तुः - जीवस्तस्य कर्म जन्तुकर्म, अनेनावद्धकर्मव्यवच्छेदमाह, तच्च' से ' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशुभं संसारानुबन्धित्वात् एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः ॥ प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धमाह - तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात्, नाप्यस मस्थिति चरमसमये युगपत् क्षयासम्भवादिति, एतदयुक्तम् उभयथाऽप्यदोषात्, तथाहि - विषमनिबन्धनत्वे सत्यपि विचित्रक्षय सम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोषः, न | चैतत् स्वमनीषिकयैवोच्यते, यत आह नियुक्तिकारः
नाऊण वेअणिज्जं अइबहुअं आउअं च थोवागं । गंतूण समुग्धायं खवंति कम्मं निरवसेसं ॥ ९५४ ॥ व्याख्या -- ' ज्ञात्वा' केवलेनावगम्य, किं ? - वेदनीयं कर्म, किंभूतं ? - 'अतिबहु' शेषभवोपग्राहि कर्मापेक्षयाऽतिप्रभूतमित्यर्थः, तथाssयुष्कं च कर्म 'स्तोकम्' अल्पं, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य 'समुद्घातम्' इति सम्यग् - अपुनर्भावेनोत् प्राबल्येन कर्मणो हननं घातः - प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्घात इति तम्, 'क्षपयन्ति' विनाश
Jain Education International
For Personal & Private Use Only
नमस्कार० वि० १
॥४३९॥
ww.jainelibrary.org