________________
भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छब्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मेत्थंप्रकार, तुशब्दो भव्य-| कर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्मायत इति, ततश्च यद्भव्यकर्मेति शेषितम्' इति शेषं कृतं शेषितं-स्थित्या-1 दिभिः प्रभूतं सत् स्थितिसङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषम्-अल्पं कृतमिति भावः, प्राक् किंभूतं सच्छेषितम् ? इत्याह-'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं "सित वर्णबन्धनयो रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म ध्मातं, 'ध्मा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ?-सिद्धत्वमुपजायते, नासिद्धस्य, "भव्योऽसिद्धो न सिध्यतीति वचनादू, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकर्मावृतं तदावरणविगमैनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्त्या व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत् , तथा चाऽऽहुरेके-'दीपो यथा नितिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित , स्नेहक्षयात् केवलमेति शान्तिम् | ॥१॥ इत्यादि, एवंविधसिद्धत्वभावे दीक्षादिप्रयासवैयात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्याप्यसिद्धत्वात् , तथाहि-तत्र त एव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवा-18| ऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रया-वेगः चेष्टाऽनभवः फलमित्यनान्तरं, ततश्च दीर्घकालो रयोऽस्येति
१ भवे-संसारे भवो भव्यः अभव्य इत्यर्थः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org