________________
चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नासन्ने नातिदूरे व्यवस्थिताः सन्तः, किम् ? - गुरुवचनप्रतीच्छका भवन्ति - शृण्व - न्तीति गाथार्थः ॥ साम्प्रतं श्रवणविधिप्रतिपादनायाह
णिद्दा विगहा परिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्व उवउत्तेहिं सुणेयव्वं ॥ ७०७ ॥ अभिसंतेहिं सुहासियाइँ वयणाइँ अत्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥ ७०८ ॥ गाथाद्वयं निगदसिद्धं । नवरं 'हरिसागएहिं' ति सञ्जातहर्षैरित्यर्थः, अन्येषां च संवेगकारणादिना हर्षे जनयद्भिः, एवं च शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति ॥ ततः किमित्याह
गुरुरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं खिष्पं पारं समुवयंति ॥ ७०९ ॥ व्याख्या- 'गुरु परितोषगतेन' गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किम् ?, सम्यक्सद्भावप्ररूपणया ईप्सित सूत्रार्थयोः 'क्षिप्रं' शीघ्रं पारं समुपयान्ति-निष्ठां व्रजन्तीति गाथार्थः ॥
वक्खाणसमत्तीए जोगं काऊण काइयाईणं । वंदति तभ जेई अण्णे पुवं चिय भणन्ति ॥ ७१० ॥ निगदसिद्धा । नवरम्, अन्ये आचार्या इत्थमभिदधति - किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति । द्वारगाथापश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराह -
चोति जइहु जिट्ठो कहिंचि सुत्तत्थधारणाविगलो । वक्खाणलद्धिहीणो निरत्थयं वंदणं तंमि ॥ ७११ ॥ निगदसिद्धा । नवरं निरर्थकं वन्दनं, तस्मिंस्तत्फलस्य प्रत्युच्चार कश्रवणस्याभावादिति भावना ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org